111 च प्रत्यक्षविषयव्यवस्था । एवन्तर्हि स्वलक्षणविषयता
न स्यादिति चेत्540 । न(।)
सजातीयव्यावृत्तत्वेनापि ततो निश्चयात्। द्वे च व्यावृत्ती स्वलक्षणे स्तो निश्चिते च
प्रत्यक्षबलात्। न चैवमप्यनुमानस्य वैयर्थ्य (।) न हि सामान्यमित्येव प्रत्यक्षविषयः ।
परोक्षे तस्याप्रवृत्तेः । न च यदेकदाऽपरोक्षं तत्सर्वदा तथा । स्वलक्षणं कदाचिद
परोक्षमप्यन्यदा परोक्षं एवं सामान्यमपि । ततोऽपरोक्षे सामान्ये गृहीतायां व्याप्तौ
परोक्षे तस्मिन्ननुमानवृत्तिरिति न कश्चिद्विरोधः । तस्मात्
प्रत्यक्षत्वाद्वा विषय
द्वैविध्यसिद्धिः प्रत्यक्षानुमानाभ्यां वेत्युभयथाप्युपपन्नं ।

विषयद्वैविध्यमेव कस्मादित्याह (।)

शक्त्यशक्तितः ।
अर्थक्रियायां;

शक्त्यशक्तितोऽर्थक्रियायां । स्वलक्षणस्यार्थक्रियाशक्तत्वात् । विजातीयव्या
वृत्त्युपकल्पितस्य च सामान्यस्याशक्तत्वात् विषयद्वैविध्यं । न ह्येकस्य विरुद्धाविमौ धर्मौ युज्येते । यद्यनर्थक्रियाकारि सामान्यं केशोण्डुकज्ञानप्रतिभासि केशाद्यपि सामान्यं स्यात् ।

केशादिर्न्नार्थोनर्थाधिमोक्षतः ॥ १ ॥

के541शादिरर्थः सामान्यरूपोऽनर्थाधिमोक्षतः । (१) यत्र हि व्यवह
र्तॄ542णा-21a
मर्थाध्यवसायः सोऽर्थः स्वलक्षणं सामान्यम्वा स्यात् । यत्र पुनरर्थबुद्धिरेव नास्ति
स कथं सामान्यमुच्यतां ।

  1. ननु यदतीन्द्रियं केशादिव्यवहितं स्वलक्षणं, यच्च सामान्यं न गोचरोनुमानस्य, तस्य कथं व्यवस्था ।

    यज्जातीयैः प्रमाणैश्च यज्जातीयार्थदर्शनं ।
    भवेदिदानीं लोकस्य तथा कालान्तरेष्वपी
    ति
    [कुमारिल]वचनात् ।

  2. अनर्थक्रियातो न स्वलक्षणं, स्पष्टप्रतिभास्यनन्वयित्वाभ्यां न च सामान्यमिति विषयान्तरत्वमस्य ॥

  3. अथारोप्यैतत् अन्यथोत्पत्तिसारूप्याभ्यां विषयत्वे आकारो बहिर्भासिकेशादेर्नोत्पादको न सरूपको नापि सम्वित्तस्येति चोद्यानवकाश एव सांव्यवहारि
    प्रमाणमेतत् । देशादिविप्रकृष्टन्तु (।)

    यज्जातीयैः प्रमाणैश्च यज्जातीयार्थदर्शनं ।
    भवेदिदानीं लोकस्य तथा कालान्तरेष्वपि
    [कुमारिलस्य] ॥