112
सदृशासदृशत्वाच्च विषयाविषयत्वतः ।
शब्दस्यान्यनिमित्तानां भावे धीः सदसत्वतः ॥ २ ॥

तथा543 तदृशासदृशत्वाच्च विषयद्वैविध्यं । सदृशं सामान्यं सर्वव्यक्तिसाधारण
त्वात् । असदृशं स्वलक्षणं सर्व्वतो व्यावृत्तत्वात् । अनयोश्चान्योन्यव्यवच्छेदरूप
त्वात् न राश्यन्तरं । ततो यदि कल्प्यमानं सदृशं तदा सामान्यमेव तत् ।
अथासदृशं स्वलक्षणमेवेति द्वैविध्यमेव विषयस्य । तथा544 शब्दस्य विषयाविषय
त्वतश्च द्वैविध्यं । शब्दस्य विषयः सामान्यं । अविषयः स्वलक्षणं । न च
शब्दविषयाविषयाभ्यामन्योस्ति सर्व्वस्य संग्रहात् द्वैविध्यमेव । तथा विषयाद
न्यषान्निमित्तानां मनस्कारवत् साद्गुण्यसंकेतग्रहणानां भावे ग्राहिकाया धियः
सा545मान्ये सत्त्वात् स्वल546क्षणे चाभावात् विषयद्वैविध्यं । यत्र विषयव्यतिरिक्त
निमित्तसद्भावे भवति बुद्धिस्तत्सामान्यं (।) यत्र547तु न भवति तत् स्वलक्षणं ।
प्रकारान्तरञ्च न सम्भवतीति बुद्धिविषयाविषयत्वे सामान्यस्वलक्षणतैवेति द्वैविध्य
मेव विषयस्य । (२)

(२. सत्यद्वयचिन्ता)

तदेवार्थक्रियासामर्थ्यादिकं स्वलक्षणा
दौ योजयन्नाह ।

अर्थक्रियासमर्थ यत् तदत्र परमार्थसत् ।
अन्यत् संवृतिसत् प्रोक्तं; ते स्वसामान्यलक्षणो ॥ ३ ॥

अर्थक्रियायां ज्ञानादिकायां स्वरूपोपधानेन समर्थं यत्तदत्र वस्तुविचारो परमार्थ
सत्
 । एवं यदसदृशं शब्दाविषयोऽन्यनिमित्तभावे ज्ञानाभावश्च तत्परमार्थसत् ।
अतोऽन्यदशक्तं सदृशं शब्दविषयः । अन्यनिमित्तभावे बुद्धेर्व्विषयश्च तत् संवृतिसत्
प्रोक्तं
कल्पनामात्रव्यवहार्यत्वात् । ते परमार्थसंवृती स्वसामान्यलक्षणे । (३)

(३. सामान्यतत्कल्यनानिरासः)

अशक्तं सर्वमिति चेद् बीजादेरङ्कुरादिषु ।
दृष्टा शक्तिः;

स्वलक्षणसामान्यलक्षणे इष्टे ॥ सर्व्वमर्थकारित्वेने548ष्टमशक्तं । न किञ्चित्
कर्त्तुं सम
र्थमिति चेत् । बीजादेः कारणाभिमतस्याङ्कुरादौ कार्यसंमते दृष्टा शक्ति-

  1. सांख्यमतेनाह ।

  2. ज्ञानद्वारेण निराकृत्य शब्दमुखेनाह ।

  3. व्यवहर्तृ व्यवसायान्न वस्तुतः ।

  4. मनस्कारादीनां भावेपि यदभावे धियोऽभावस्तत्स्वलक्षणं ।

  5. विषये सत्येव बुद्धिर्भवति ।

  6. माध्यमिको सिद्धतामाह ।