भावधर्मत्वहानिश्चेद् भावग्रहणपूर्वकम् ।
तज्ज्ञानमित्यदोषोयं;

वस्तु विना सामान्यबुद्ध्युत्पादे भावध
र्मत्वहानिः
सामान्यस्य प्रसज्यते चेत् ।
भावस्य रूपादेर्ग्रहणपूर्व्वकं639 तस्य सामान्यस्य साधारणबाह्यरूपतयाऽध्यवसित
बुद्ध्याकारलक्षणस्याध्यवसायेन ज्ञानमित्ययमवस्तु640धर्मत्वलक्षणोऽदोषो दोषो
भवति । न हि सामान्यं641 रूपादिरिव भावरूपतया ज्ञानविषय इति भावधर्म इष्टं642 ।

132
मेयं त्वेकं स्वलक्षणाम् ॥ ५३ ॥

किन्तु भाववासनाप्रबोधप्रसूतविकल्पकल्पितत्वात्643 । परमार्थतो मेयं त्वेकं
स्वलक्षणं
 । तस्यैव रूपबुद्ध्युत्पादकत्वात् । (५३)

  1. रूपाहितवासनामाश्रित्योत्पत्तेः ।

  2. वस्तुधर्मत्वहान्या ।

  3. ? भावस्य सत्वे भवत् । भावाश्रयत्वात् ।

  4. ? रूपादिरिव ।

  5. यत एवं नान्यदर्थक्रियाक्षमं ।