113 र्जननलक्षणा । बीजान्वयव्यतिरेकानुविधाय्यङ्कुरो दृश्यते (।) इदमेव कारणस्य
शक्तत्वं यत्प्रागदृष्टस्य तद्भाव एव भावः ॥

मता सा चेत् संवृत्या;

सा शक्तिः संवृत्या मता चेत् कार्यकारणभावो हि व्यवहारमात्रतः सिद्धः न
परमार्थतः । न तावत्प्रत्यक्षं तद्ग्रहणसमर्थं बीजाङ्कुरग्राहिणोः प्रत्यक्षयोः
स्वविषयमात्रव्यवस्थापनात् केनान्वयव्यतिरेकग्रहणं । क्रमेण द्वयोर्गृहीतयोस्तद्बल

भाविना स्मरणेन ग्रहणमिति चेत् ।

ननु केनान्वयव्यतिरेकौ गृहीतौ । न प्रत्येकं बीजाङ्कुरज्ञानाभ्यां स्वस्वविषय
ग्रहणात् । नापि द्वाभ्यां ज्ञानयोर्ज्ञेययोश्च साहित्याभावात् । असाहित्ये बीजाङ्कुर
मात्रस्य ग्रहणं नान्वयव्यतिरेकयोः । क्रमग्रहणमेव कार्यकारणभावग्रहणम् । तत्तु घट
कुलालयोरप्यस्ति इति चेत् (।) न च क्रमोपि केनचिच्छक्यग्रहणः549प्रतियोग्यवेदना550त् ।
पूर्वापरग्रहणमत एव नास्ति स्वज्ञानेन वर्तमानता
ग्रहणाच्च । कार्यकाले च कारणं
पूर्व्वमुच्यते तदा च तदेव नास्ति । तदेतन्मृतस्यारोग्यं । अथ यदैव बीजं तदैवाङ्कु
रात् पूर्व्वं न तु पश्चात् अस्य पूर्व्वत्वं सम्भवति ॥

नन्वेवं पूर्व्वतया प्रतिभासोस्य प्राप्तः । न चैतदस्ति । अङ्कुरसाहित्यं पूर्व्वत्वं
तच्च गृह्यत एवेति चेत् । तादृशं पूर्व्वत्वमन्येषामप्यस्तीति तेपि कारणानि
स्युः । किञ्च (।) पूर्व्वत्वं वर्तमानकालात्प्राग्भावित्वमुच्यते (।) तद्यदि वस्तुनो रूपं
तदा वर्तमानं कदापि न
स्यात् । वर्तमानतातत्प्राग्भावित्वयोर्व्विरोधात् । स्यादे
तदङ्कुरवर्तमानतायाः प्राग्भावित्वं पूर्व्वत्वं । तच्च बीजस्य वर्तमानत्वेनाविरुद्ध
मिति न तस्याभावः । एवन्तर्हि बीजग्रहणे पूर्व्वताग्रहणं प्राप्तं । न च बीजस्वरूप
मिव पूर्व्वतामपि तद्ग्राहिणि ज्ञाने कश्चिदुपलभते ।

551न्वापेक्षिकमिदं पूर्व्वत्वं प्रतियोगिनोऽप्रतीतौ कथं प्रतीयतां । य552द्येवं वस्तुनो
नेदं केवलं भावान्तरापेक्षया व्यवह्रियत इत्या(या)तं
(।) न हि वस्तुरूपं सति वस्तुनि21b
नास्ति (।) यच्चास्ति तेन वस्तुरूपावभासिनि ज्ञाने प्रतिभासितव्यमेव । अन्यथा ज्ञान
ज्ञेययोर्व्विषयविषयितैव न स्यात् (।) तस्मान्नाध्यक्षात् कार्यकारणताग्रहः । अतश्च
नानुमानादपि । न हि सर्व्वदा परोक्षेऽन्येऽनुमानवृत्तिः व्याप्तिग्रहणपूर्व्वकत्वात्तस्य ।
नापि प्रत्यक्षबलभाविस्मरणं तद्ग्रहणप्रवणं(।)न हि तत्स्वतन्त्रं प्रमाणं किन्तु प्रमाण

  1. स्वरूपमात्रवेदनात् ।

  2. अक्रमवेद(ना)पेक्षत्वात् ।

  3. परः ।

  4. माध्यमिकः ।