तथा च सामान्यमिति न वस्तु634 ।

यथोक्तविपरीतं यत् तत् स्वलक्षणमिष्यते ।

यथोक्तात्सामान्याद्विपरीतं यत्तत्स्वलक्षणमुच्यते । इदञ्च वैपरीत्यं । अन
भिधेयत्वं । तत्वान्यत्वाभ्यां वाच्यत्वं । असदर्थप्रत्ययाविशिष्टप्रतिभासविषयत्वं (।)
असाधारणत्वं । संकेतस्मरणानपेक्षप्रतिपत्तिकत्वं । अन्यरूपविविक्तस्वरूपप्रतिभास
वत्त्वं (।) अर्थक्रियाक्षमत्वञ्च । एतद्युक्तं स्वलक्षणमिष्यते । एतद्विपर्ययस्यावस्तुत्व
साधनस्य सामान्यलक्षणत्वात् ।

यच्चा
तत्कार्यव्यवच्छेदलक्षणमुक्तं (।)

131
सामान्यं त्रिविधं, तच्च भावाभावोभयाश्रयात् ॥ ५१ ॥

सामान्यं तच्च त्रिविधं बोद्धव्यं भावाभावोभयाश्रयात् । किञ्चिद् भावोपादानं
सामान्यं यथा रूपादीन् भावानाश्रित्य कृ635तकत्वादिशब्दवाच्यं लिङ्गं । अभावो
पादानं यथोपलब्धिलक्षणप्राप्तस्यासतोऽनुपलब्धिरनुत्पत्तिमत्त्वादि च । तद्ध्यभावा
श्रयं सामान्यं लिङ्गं । उभयाश्रयमनुपलब्धिमात्रं636ज्ञेयत्वादि च भावाभावसाधरण
त्वात् । (५१)

  1. रूपाहितवासनामाश्रित्योत्पत्तेः ।

  2. पंक्तिसेनादिवत् ।

  3. किं पिशाचादयोऽत्यन्तमसन्तोऽथ सन्तोपि नेक्ष्यन्त इत्युभयोपादानत्वं प्रत्येतुं
    ज्ञानधर्ममुक्त्वा विषयधर्ममाह ज्ञेयत्वादि ।