131
सामान्यं त्रिविधं, तच्च भावाभावोभयाश्रयात् ॥ ५१ ॥

सामान्यं तच्च त्रिविधं बोद्धव्यं भावाभावोभयाश्रयात् । किञ्चिद् भावोपादानं
सामान्यं यथा रूपादीन् भावानाश्रित्य कृ635तकत्वादिशब्दवाच्यं लिङ्गं । अभावो
पादानं यथोपलब्धिलक्षणप्राप्तस्यासतोऽनुपलब्धिरनुत्पत्तिमत्त्वादि च । तद्ध्यभावा
श्रयं सामान्यं लिङ्गं । उभयाश्रयमनुपलब्धिमात्रं636ज्ञेयत्वादि च भावाभावसाधरण
त्वात् । (५१)

यदि भावाश्रयं ज्ञानं भावे भावानुबन्धतः ॥
नोक्तोत्तरत्वाद् दृष्टत्वाद्; अतीतादिषु चान्यथा ॥ ५२ ॥

यदि किञ्चित्सामान्यं भा
वाश्रयं
तत् ज्ञानं तद्भावे भावविषयं प्राप्नोति ।
भावानुबन्धतो भावान्वयव्यतिरेकानुविधानात् । नैतद्युक्तं न तद्वस्तु । अभि637धेय
त्वादिनोक्तोत्तरत्वात् । निषिद्धं हि सामान्यस्य वस्तुत्वमनन्तरमेव प्रपञ्चेनेत्य
नुमानबाधितत्वं प्रतिज्ञा638याः । दृष्टत्वात् । अतीतादिषु चान्यथा वस्तुव्यतिरेकेणैवा
सीद् घटो भविष्यति चेति सामान्यबुद्धिरुत्पद्यते इत्यसिद्धतापि भावानुबन्धत
इति हेतोः । (५२)

भावधर्मत्वहानिश्चेद् भावग्रहणपूर्वकम् ।
तज्ज्ञानमित्यदोषोयं;

वस्तु विना सामान्यबुद्ध्युत्पादे भावध
र्मत्वहानिः
सामान्यस्य प्रसज्यते चेत् ।
भावस्य रूपादेर्ग्रहणपूर्व्वकं639 तस्य सामान्यस्य साधारणबाह्यरूपतयाऽध्यवसित
बुद्ध्याकारलक्षणस्याध्यवसायेन ज्ञानमित्ययमवस्तु640धर्मत्वलक्षणोऽदोषो दोषो
भवति । न हि सामान्यं641 रूपादिरिव भावरूपतया ज्ञानविषय इति भावधर्म इष्टं642 ।

  1. पंक्तिसेनादिवत् ।

  2. किं पिशाचादयोऽत्यन्तमसन्तोऽथ सन्तोपि नेक्ष्यन्त इत्युभयोपादानत्वं प्रत्येतुं
    ज्ञानधर्ममुक्त्वा विषयधर्ममाह ज्ञेयत्वादि ।

  3. यद्यपि भावानुविधानं पारम्पर्येण तथापि न साक्षाद्वस्तुविषयत्वं सिध्यति ।

  4. भावविषयत्वमिति परप्रतिज्ञाऽभिधेयत्वादिनानुमानेन बाध्यते । परंपरया
    भावानुविधानेपि न साक्षाद्वस्तुविषयता सिद्ध्यति ।

  5. रूपाहितवासनामाश्रित्योत्पत्तेः ।

  6. वस्तुधर्मत्वहान्या ।

  7. ? भावस्य सत्वे भवत् । भावाश्रयत्वात् ।

  8. ? रूपादिरिव ।