४. अनुमानचिन्ता

(१) अनुमानसिद्धिः

क. भ्रान्तमनुमानं प्रमाणाम्

अयथाभिनिवेशेन द्वितीया भ्रान्तिरिष्यते ।

या च द्वितीया पररूपेण गति
रयथाभिनिवेशेन भ्रान्तिरिष्यते साऽनुमानं
यथाऽर्थोस्ति यथा वा स्वाकारस्तथा नाभिनिविशते किन्तु स्वाकारं बाह्यं साधारण
तया मन्यते ।

गतिश्चेत् पररूपेण न च भ्रान्तेः प्रमाणता ॥ ५५ ॥

नन्वनुमानं पररूपेण गतिश्चेत् तदा भ्रान्तिरेव । न च भ्रान्तेः प्रमाणतेष्यते
मृगतृष्णादेरिव । (५५)