ततश्च दृष्टान्तग्राहिणैवा
भ्रष्टस्मृतिसंस्कारेण प्रत्यक्षेण सिद्धत्वात् विफल
मनुमानं । प्रत्यक्षसंस्कारभ्रंशे तु नादृष्टान्तमनुमानमस्ति (।) तस्माद् (।)

सन्धीयमानं चान्येन व्यवसायं स्मृतिं विदुः ।
तल्लिङ्गापेक्षणान्नो चेत् स्मृतिर्न व्यभिचारतः ॥ १२२ ॥

अन्येनातीतदर्शनेन एकविषयतया सन्धीय718 मानं घट्यमानं परं व्यवसायं719
154 स्मृतिं विदुर्व्विद्वांसः । गृहीतार्थविकल्पेन स्मृतित्वं तच्चेहाविकलं । तस्य प्रतिपत्तव्यस्य
चिह्नमव्यभिचारि लिङ्गं720 न्तदपेक्षणान्नोचेद्विशेषदृष्टमनुमानं स्मृतिः सा तु लिङ्गनि
रपेक्ष्या । नैतद्युक्तं
व्यभिचार721 तः ।722 तथा हि यदि लिङ्गन्त्रिरूपन्तदा व्याप्तिग्रह
णविषयत्वेनैव तत्सिद्धेर्व्यर्थमनुमानं । अथ न त्रिरूपन्तदा नाव्य723 भिचारनिश्चयः ।
तस्माद्विशेषदृष्टस्याप्रमाणत्वादेकत्रानेकवृत्तेरपि त्र्येकसंख्यापोहनाभावो निरस्तः ।
तस्मात्स्थितमेतन्मानं द्विविधं मेयद्वैविध्यादिति ॥ (१२२) ॥

  1. अभ्रष्टदर्शनसंस्कारं ।

  2. निश्चयं ।

  3. स्मृतेर्धूमाद्यपेक्षा नान्त्यस्यास्ति ।

  4. न स्मृतिरनिमित्तैव ।

  5. विशेषदृष्टे हि विशेषेणान्वयाभावात् त्रैरूप्यं । तदेवं लिङ्गजं प्रत्यभिज्ञानं
    दूषितं प्रत्यक्षजं दूषयिष्यते ।

  6. देशादिकथयापि स्यात् प्रत्यभिज्ञानं न तदव्यभिचारि ।