154 स्मृतिं विदुर्व्विद्वांसः । गृहीतार्थविकल्पेन स्मृतित्वं तच्चेहाविकलं । तस्य प्रतिपत्तव्यस्य
चिह्नमव्यभिचारि लिङ्गं720 न्तदपेक्षणान्नोचेद्विशेषदृष्टमनुमानं स्मृतिः सा तु लिङ्गनि
रपेक्ष्या । नैतद्युक्तं
व्यभिचार721 तः ।722 तथा हि यदि लिङ्गन्त्रिरूपन्तदा व्याप्तिग्रह
णविषयत्वेनैव तत्सिद्धेर्व्यर्थमनुमानं । अथ न त्रिरूपन्तदा नाव्य723 भिचारनिश्चयः ।
तस्माद्विशेषदृष्टस्याप्रमाणत्वादेकत्रानेकवृत्तेरपि त्र्येकसंख्यापोहनाभावो निरस्तः ।
तस्मात्स्थितमेतन्मानं द्विविधं मेयद्वैविध्यादिति ॥ (१२२) ॥

५. प्रत्यक्षचिन्ता

(१) प्रत्यक्षलक्षणविप्रतिपत्तिनिरासः

क. कल्पनापोढं प्रत्यक्षम्

इदानीमवसरप्राप्तां प्रत्यक्षस्य लक्षणविप्रतिपत्तिं निराकर्त्तुमाह ।

प्रत्यक्षं कल्पनापोढं प्रत्यक्षेणैव सिध्यति ।
प्रत्यात्मवेद्यः सर्वेषां विकल्पो नामसंश्रयः ॥ १२३ ॥

यत्तत्प्रत्यक्षमिति प्रसिद्धं
तत् कल्पनाया अपोढं द्रष्टव्यं कल्पनार्थरहितमित्यर्थः ।
तच्चैतदीदृशं प्रत्यक्षेणैव स्वसम्वेदनेनैव सिध्यति । कल्पनारहितस्यार्थस्य रूपस्य
सम्वेदनस्यापरोक्षत्वात् । यदि तु कल्पनास्वभावत्वमस्य स्यात्तथैव प्रकाशेत ।
विकल्पस्यापरोक्षत्वात् । तथा हि प्रत्यात्मवेद्यः सर्व्वेषां प्राणिनां विकल्पो नाम
संश्रयः
शब्दसंसर्गवान् । स यदि स्यादुपलभ्य एव भवेत्
(। १२३)

तस्मात् (।)

संहृत्य सर्वतश्चिन्तां स्तिमितेनान्तरात्मना ।
स्थितोपि चक्षुषा रूपमीक्षते साक्षजा मतिः ॥ १२४ ॥

संहृत्याकृष्य सर्व्वतो विकल्पनीयाच्चिन्तां स्तिमितेन सर्व्वाविकल्प
विगमात् अधिक्षिप्तेनान्तरात्मना चेतसा स्थितोऽपि पुरुषश्चक्षुर्व्विज्ञानेन रूप
मीक्षते साक्ष
जा निर्व्विकल्पा मतिः सर्व सम्विदितैव । (१२४)

  1. स्मृतेर्धूमाद्यपेक्षा नान्त्यस्यास्ति ।

  2. न स्मृतिरनिमित्तैव ।

  3. विशेषदृष्टे हि विशेषेणान्वयाभावात् त्रैरूप्यं । तदेवं लिङ्गजं प्रत्यभिज्ञानं
    दूषितं प्रत्यक्षजं दूषयिष्यते ।

  4. देशादिकथयापि स्यात् प्रत्यभिज्ञानं न तदव्यभिचारि ।