किञ्च (।)

अतीतमपदृष्टान्तमलिङ्गञ्चार्थवेदनम् ।
सिद्धं तत्केन तस्मिन् हि न प्रत्यक्षं न लैङ्गिकम् ॥ १८० ॥

सविकल्पकप्रत्यक्षवादिना निर्व्विकल्पस्याप्यस्वसंवेदनवा794दिनो मतेऽतीत
मर्थवेदनं
न केवलमध्यक्षतो वर्तमानविषय795त्वान्न सिध्यति । किन्त्वनुमानादपि
यस्मादलिङ्गं लिङ्गरहितं । तथा हि धर्मिणो ज्ञानस्यासिद्धत्वात् लिङ्गमाश्रया
173 सिद्धं । अनुमानात् ज्ञानसिद्धिवादिनः कस्यचिज्ज्ञानस्याध्यक्षासिद्धत्वात् अनुमानसिद्धावनवस्थानात् अपदृष्टान्तं । दृष्टान्तासिद्धौ न
व्याप्तिसिद्धिरिति लिङ्गरहितमेवातीतं रूपादिदर्शनं । तत्तस्मात्केन प्रमाणेन सिद्धं तस्मिन् हि रूपादिदर्शने न प्रत्यक्षमभिमतत्वादस्ति । न च लैङ्गिकमनुमानमुक्तक्रमादिति सकलमप्रतिपत्तिकमन्धमू796कं जगत्प्राप्तमिति ॥ (१८०)

  1. वैशेषिकस्य ।

  2. हेतुः ।

  3. प्रत्यक्षासिद्ध्या । वचनाभावात् अननुभूतेनाविकल्प्य वचनं ।