173 सिद्धं । अनुमानात् ज्ञानसिद्धिवादिनः कस्यचिज्ज्ञानस्याध्यक्षासिद्धत्वात् अनुमानसिद्धावनवस्थानात् अपदृष्टान्तं । दृष्टान्तासिद्धौ न
व्याप्तिसिद्धिरिति लिङ्गरहितमेवातीतं रूपादिदर्शनं । तत्तस्मात्केन प्रमाणेन सिद्धं तस्मिन् हि रूपादिदर्शने न प्रत्यक्षमभिमतत्वादस्ति । न च लैङ्गिकमनुमानमुक्तक्रमादिति सकलमप्रतिपत्तिकमन्धमू796कं जगत्प्राप्तमिति ॥ (१८०)

अथ (।)

तत्स्वरूपावभासिन्या बुद्ध्यानन्तरया यदि ।
रूपादिरिव गृह्येत;

तत्स्वरूपावभासिन्याऽतीतरूपादिबुद्धिरूपप्रतिभासिन्या तज्जन्ययाऽनन्तया धियाऽतीतबुद्धिर्यदि गृह्यते सौ त्रा न्ति क मते रूपादिरिव तदनुकारिण्या तद
नन्तर
या
धिया तदा को दोष इत्याह (।)

यदा चिरं बहुषु विषयेषु ज्ञा797नानि प्रवर्तन्ते तदा (।)

न स्यात् तत्पूर्वधीग्रहः ॥ १८१ ॥
सोविकल्पः स्वविषयो विज्ञानानुभवो यथा ।
अशक्यसमयं तद्वदन्यदप्यविकल्पकम् ॥ १८२ ॥
सामान्यवाचिनः शब्दास्तदेकार्था च कल्पना ।
अभावे निर्विकल्पस्य विशेषाधिगमः कथम् ॥ १८३ ॥
अस्ति चेन्निर्विकल्पञ्च किञ्चित्तत्तुल्यहेतुकम् ।
सर्वं तथैव हेतोर्हि भेदाद् भेदः फलात्मनाम् ॥ १८४ ॥

तस्मादन्त्यात् ज्ञानात् याः पूर्व्वा धियस्तासां ग्रहो न स्यादिति दोषः ।
अन्त्यबुद्धिजनितया हि धिया सैव गृह्यते न त्वन्या इति स्यात् । अस्ति चानु
भवस्तासां यद्वलेन चिरमहमद्राक्षमिति भवति द्रष्टुः । तस्मात्स्वविषयः स्वरूपा
लम्बनो विज्ञानानां पूर्व्वभाविनामनुभवोऽविकल्पः । स यथा तद्वदन्यदपि ज्ञानमन्त्यमप्रतिब
द्धवृत्ति चाविकल्पकं बोद्धव्यं । यस्मात्सकलमेव स्वरूपमशक्य
समयं
शब्दसंकेताविषयः । ततश्च न विकल्पग्राह्यं (।) किञ्च विशेषसंकेताभावात्
व्यवहारकालानुयायित्वाच्च सामान्यवाचिनः शब्दास्तैः शब्दैरेकार्था एक
विषया च कल्पना शब्दयोजनया शब्दार्थ एव कल्पना । परमते च निर्व्विकल
पस्य
ज्ञानस्याभावे विशेषस्य विकल्पाविषयस्याधिगमः कथं न कथञ्चि-34a
दित्यर्थः । विशेषानुभवदर्शनादस्ति किञ्चि
न्निर्व्विकल्पं च
ज्ञानं यथाहुर्मी मां स

  1. प्रत्यक्षासिद्ध्या । वचनाभावात् अननुभूतेनाविकल्प्य वचनं ।

  2. इन्द्रियज्ञानान्यसन्तानेन ।