174 कादय इति चेत् । एवन्तर्हि तेन निर्व्विकल्पेन तुल्यहेतुकं चक्षूरूपमनस्कारादिसमान
हेतुकं विशेषविषयं सर्व्वं ज्ञानं तथैवाविकल्पकमस्तु (।) न तु स्वलक्षणविषयमपि
किञ्चित्सविकल्पकं । हिर्यस्माद्धतोर्भेदात्फलात्मनां भेदो भवति । हेत्वभेदे तु
फलाभेद एव युक्तः । नान्यथा क्वचिदप्येकजातीयता स्यात् ॥798(१८१-८४)

किञ्च (।)

अनपेक्षितबाह्यार्था योजना समयस्मृतेः ।
तथानपेक्ष्य समयं वस्तुशक्त्यैव नेत्रधीः ॥ १८५ ॥

योज799ना कल्पनाऽनपेक्षितबाह्यार्था बहिरर्थसंकेतविषयमनपेक्ष्यै
व समयस्य
प्राग्गृहीतस्य स्मृतेः सकाशाद् भवति तावत् । तथा समयमनपेक्ष्य वस्तुनः स्वलक्षणस्य शक्त्या स्वाकारानुकारिविज्ञानजननसामर्थ्येनैव नेत्रधीर्जायते यदि तदा को विरोधः । (१८५)

स्यादेतद् (।)

संकेतस्मरणापेक्ष रूपं यद्यक्षचेतसि ।
अनपेक्ष्य न चेच्छक्तं स्यात् स्मृतावेव लिङ्गवत् ॥ १८६ ॥

रूपमक्षचेतसि कर्तव्ये संकेतस्मरणापेक्षं तदनपेक्षं पुनर्नाशक्तमिति
एवं तर्हि श्रुतावेव रूपं शक्तमिति स्यात् । न त्विन्द्रियबुद्धौ लिङ्गवत् । यथा
हि लिंगं लिंगबुद्धौ साक्षाच्छक्तं किन्तु लिङ्गलिङ्गिनोः सम्म्बन्धिस्मृतावेव ।
तथा संकेतस्मरणे रूपं नि
मित्तं स्यात् । न चागृहीतं स्मृतिप्रतिबोधकमिति
निर्व्विकल्पकमस्य ग्रहणं प्राक् ततः स्मृतिः । ततश्च योजनेति क्रमः । (१८६)

कथं पुनरर्थसम्मुखीभावात् स्मृतिजन्मेत्याह (।)

तस्यास्तत्सङ्गमोत्पत्तेरक्षधीः स्यात् स्मृतेर्न्न वा ।
ततः कालान्तरेपि स्यात् क्वचिद् व्याक्षेपसम्भवात् ॥ १८७ ॥

तस्याः स्मृतेस्तस्यार्थस्य संगमेन सम्मुखीभावेनोत्पत्तेः800 । न त्वक्षधीरर्थात्स्यात् ।
सा तु स्मृतेरर्थजनितायाः स्यात् । न वा स्मृतेरपि भवेत् स्मृत्यधीनतायां नार्था
धीनता । यच्च स्मरणं भावि तन्नावश्यं801 भवतीति कदाचिन्न भवेदपि । ततः स्मृतेः
कालान्त
रेणापि स्याद
ध्यक्षधीः स्मृत्यनन्तरं क्वचिद्विषयान्तरे व्याक्षेपस्या- शक्तिलक्षणस्य संभवात् । तन्निवृत्तौ सत्यां क्रमेण भवेत् । (१८७)

  1. प्रत्यक्षं कल्पनापोढमि त्यादि यत्रैषा कल्पना नास्तीत्यन्तः [प्रमाण] समुच्चयो व्याख्यातः ।

  2. शब्दार्थयोः ।

  3. अर्थात्सैव स्मृतिः स्यात् ।

  4. इच्छावशात् ।