सन्त्येवेन्द्रियधियः कल्पनास्तास्तु नोपलभ्यन्त इत्यप्यसत् । तथा हि ।
विकल्पावस्थाया ऊर्ध्वं पुनर्व्विकल्पयन् पुमानासीन्मे कल्पनेदृशीति वेति नेन्द्रि
यादु
त्पन्नायां गतौ बुद्धौ संहृत्येत्यादिना पूर्व्वमुक्तावस्था यस्यास्तस्याः कल्पनां वेति ।
यदि सा तत्र स्यादतत्संस्कारस्य स्मृतिर्जायते । तस्मान्नास्तीति निश्चीयते (। १२५)
किञ्च (।) वाच्यवाचकाकारसंसर्गवती प्रतीतिः कल्पना । न चेन्द्रियविषये
ऽनन्वयात् संकेताऽसम्भवाच्च शब्दयोजनास्ति (।) तथाहि (।)
एकत्र दे724शादौ न दृश्यते न चा
ननुयायिनि शब्दसंकेतः । सामान्यमनुयायीति
चेत् । तस्माद् भेदादन्यद् भिन्नं सामान्यं नास्ति बुद्धेरभेदतः । (१२६)
यदि हि सामान्यं सामान्यं स्यात् द्व्याकारा बुद्धिर्भवेत् । विशेषमात्राकारैव
तु प्रत्यक्षबुद्धिरुपलभ्यते ।
तस्मात्सर्व्वैवेन्द्रियजा मतिर्व्विशेषमात्रविषयाऽन्यस्यानुपलब्धेः । न च विशेषेषु
शब्दानां प्रवृत्तौ संभवोस्ति (१२७)
विशेषाणामनन्वयात् तत्र संकेतस्या
प्रवृत्तितः । उत्तरकालं शब्दार्थप्रतिपत्त्यर्थं
संकेतक्रिया । न च विशेषाः कालान्तरमनुवर्तन्ते । तस्माद्य एव शब्दानां विषयो30a
व्यवच्छेदः स एव तैः संयोज्येत । न स्वलक्षणं ॥ (१२८)
तस्मादस्यार्थस्येदम्वाचकमिति सम्बन्धे वाच्यवाचकभावलक्षणे यावर्थौ प्रति
भासिनौ तयोरेव हि सम्बन्धो वक्तव्यः । यदा चार्थन्दृष्ट्वा सकेतं तत्र प्रवर्तयति ।
तदेन्द्रियगोचरोऽर्थो नास्ति (। १२९)
-
शब्दादेकत्र नियुक्तात्सर्व्वत्रार्थप्रतीतिः स्यात् ।
↩