156
विशदप्रतिभासस्य तदार्थस्याविभावनात् ।
विज्ञानाभासभेदश्च पदार्थानां विशेषकः ॥ १३० ॥

संहृतेन्द्रियव्यापारस्य तदा संकेतसंकल्पकाले विष (श?)दप्रति
भासस्यार्थस्या
विभावनात्
 । यदि तत्रार्थः प्रतिभाति तदेन्द्रियज्ञानवत् स्फुटः प्रतीयते । न च
प्रतिभासभेदेपि शब्देन्द्रियज्ञानयोरेकविषयत्वं यस्माद्विज्ञानस्याभासभेद आकार
भेदः पदार्थानां ग्राह्यानां (? णां) विशेषको भेदकः । यदि तु प्रतिभासभेदेप्यर्था
भेदस्तदा विश्वमेकं द्रव्यं स्यात् ॥(१३०)