संहृतेन्द्रियव्यापारस्य तदा संकेतसंकल्पकाले विष (श?)दप्रति
भासस्यार्थस्या
विभावनात् । यदि तत्रार्थः प्रतिभाति तदेन्द्रियज्ञानवत् स्फुटः प्रतीयते । न च
प्रतिभासभेदेपि शब्देन्द्रियज्ञानयोरेकविषयत्वं यस्माद्विज्ञानस्याभासभेद आकार
भेदः पदार्थानां ग्राह्यानां (? णां) विशेषको भेदकः । यदि तु प्रतिभासभेदेप्यर्था
भेदस्तदा विश्वमेकं द्रव्यं स्यात् ॥(१३०)
स्यादेतत् । यदा स्वलक्षणमुपदर्श्य शब्दो निवेश्यते तदा स्वलक्षणमेव वाच्य
वाचकमित्याह (।)
चक्षुषार्थवभासे
पि जाते तथा श्रोत्राच्छाब्दावभासेपि यमर्थमन्यव्यवच्छेदं
बुद्धिपरिवर्त्तिनं परः प्रतिपादकोऽस्यार्थस्यायं वाचक इति शंसति कथयति स एवान्य
व्यवच्छेदः शब्दैर्योज्यते न खल्विन्द्रियगोचरः स्वलक्षणमनन्वयात्तस्य । तद्दर्शनान्तरं
संकेतसंकल्पे च विनाशाच्च । (१३१)
तथाऽव्यापृतेन्द्रियस्यान्यवाङ्मात्रेण स्वलक्षणाविभावनात् प्रत्यक्ष इव ।
स्यादेतत् (।) संकेताविषयत्वेपि शब्दसंसृष्टमेव
स्वलक्षणमध्यक्षं प्रकृत्या
प्रत्येष्यतीत्याह (।)
न चानुदितसम्बन्धो वाच्यवाचकभावो यस्य स शब्दः प्रत्यायको दृष्ट
इति शेषः (।) तथाभ्युपगमे तु स्वयं संकेतमनपेक्ष्यैव श्रुताच्छब्दादर्थस्य ज्ञान
प्रसङ्गतः । (१३२)
नन्विन्द्रियव्यापारसमकालमहिरहिरिति धारावाहिसविकल्पकमध्यक्षं प्रवर्तते ।
यदि तु तत्र विकल्पकमविकल्पकञ्च द्वयमिष्यते तदा विकल्पेन निर्व्विकल्पस्य
व्यवधानाद् दर्शनं
विच्छिन्नं स्यात् । न चैतदस्ति । न युगपज्ज्ञानसम्भवः (।)
अत्राह (।)