157

मनसोः सविकल्पाविकल्पयोरेकस्मात्समनन्तराद्युगपद् वृत्तेः कारणात्तयोरैक्यं
विमूढः प्रतिपत्ता व्यवस्यति । निर्व्विकल्पकं हि स्वलक्षणविषयं विकल्पश्च वस्तुतो
ऽतद्विषयत्वेप्यवसायानुरोधात्तद्विषयः725 । सहोत्पत्तिश्चानुभवसिद्धत्वात् दुरपह्नवा ।
ततः सहोत्पन्नयोरेकविषययोरैक्यभ्रम एषः । पराभिमतायां
युगपदनुत्पत्तावपि
सविकल्पाविकल्पयोर्लघुवृत्तेः शीघ्रवृत्तेर्व्वा कारणात् तयोर्मूढमतिः प्रतिपत्ता ऐक्यं
व्यवस्यति
अलातभ्रान्तौ चक्रमिव । (१३३)

यदि दर्शनमविकल्पं तदनन्तरन्तु विकल्पः पुनस्तदनन्तरं दर्शनं तदा (।)

विकल्पव्यवधानेन विच्छिन्नं दर्शनम्भवेत् ।
इति चेद् भिन्नजातीयविकल्पेन्यस्य वा कथम् ॥ १३४ ॥

विकल्पेन व्यवधानाद्विच्छिन्नं दर्शनं भवेत् । न धारावाहीति चेत् । नन्वस्य परस्यापि गां पश्यतो निर्व्विकल्पेन प्रत्यक्षेण भिन्नजातीयस्याश्वादेर्व्विकल्पे जा

माने दर्शनं कथमविच्छिन्नं । न ह्यश्ववाचकशब्देन संयोज्य गौर्गृह्यते । येनैकमेव
सविकल्पं तदध्यक्षं भवेत् । एकत्वे वाश्वप्रतीतिर्न स्यात् । गोविषयत्वात्तस्य ।
(१३४)

स्यादेतत् ।

अलातदृष्टिवद् भावपक्षश्चेद् बलवान् मतः ।
अन्यत्रापि समानं तद् वर्णयोर्व्वा सकृच्छृ तिः ॥ १३५ ॥

अलातस्य भ्रम्यमानस्य नानादेशेषु लाघवाद् भावपक्षबलवत्वाच्च दर्शन
प्रतिसन्धानेन चक्रदृष्टिवत् विजातीयव्यवकीर्यमाणस्य दर्शनस्यान्तरा अभावेपि30b
भावपक्षो बलवान् मत इति दर्शना
विच्छेदबुद्धिरति चेत् । अन्यत्राभावपक्षेपि तद्बलवत्त्वे लाघवसामर्थ्यात् समानं726 । ततो दर्शनविच्छेदलाघवाद्विच्छेदधीरे
वास्तु । सरो रस इत्यादौ वर्ण्णयोर्वा लाघवात्स727कृत्श्रुतिः प्राप्ता ॥(१३५)

ख. परमतदूषणम्

किञ्च (।)

सकृत् सङ्गतशब्दार्थेष्विन्द्रियेष्विह सत्स्वपि ।
पञ्चभिर्व्यवधानेपि भात्यव्यवहितेव या ॥ १३६ ॥
  1. अस्पष्टः ।

  2. दृष्टाविमृष्टादौ ।

  3. तथा क्रमाभेदात्सकृत्श्रुतिभेवो न स्यात् ।