203

प्राक् प्रथमपरिच्छेदे926
योगिनां ज्ञानं सत्त्यविषयमुक्तं । तेषां योगिनां भावना
मयं
भावनाहेतुनिष्पत्तिकं तत् ज्ञानं सत्त्यस्वरूपविषयत्वेन विधूतकल्पनाजालम- विकल्पत्वाच्च स्पष्टं विशदज्ञेयाकारमेवावभासते । (२८१)

भावनाभवं कथं स्पष्टमित्याह (।)

कामशोकभयोन्मादचौरस्वप्राद्युपप्लुताः ।
अभूतानपि पश्यन्ति पुरतोवस्थितानिव ॥ २८२ ॥

कामश्च शोकश्च भयञ्च तैरुन्मादाश्चौरस्वप्नादयश्चेति कामशोकभयोन्माद
चौरस्वप्नादिभिरुपप्लुता
भ्रान्तास्तेऽभूतानप्यर्थान् भावना927वशात् पुरतोऽवस्थिता-40a
निव प
श्य928न्ति
 । यस्मात्तदनुरूपां प्रवृत्तिं चेष्टन्ते ॥ (२८२)

भवतु भावनाजं स्पष्टमविकल्पं तु कथमित्याह (।)

न विकल्पानुबद्धस्यास्ति स्फुटार्थावभासिता ॥

न विकल्पेनानुबद्धस्य संस्तुतस्य ज्ञानस्य स्फुटार्थावभासितास्ति ॥

ननु विप्लववशात् विकल्पकमपि स्वप्ने स्पष्टाभं ज्ञानं भवतीत्याह (।)

स्वप्नेपि स्मर्यते स्मार्त्तं न च तत्तादृगर्थवत् ॥ २८३ ॥

स्वप्नेपि स्मार्त्तं स्मरणं किञ्चिदुत्पद्यते । न च तत्प्रबोधावस्थायां तादृगर्थ
वद्या
दृशो निर्व्विकल्पेनानुभूतोऽर्थस्तादृशार्थेन युक्तं स्मर्यते । किन्तर्हि अस्पष्टार्थ
मेव स्वप्नस्मरणं स्मर्यते । (२८३)

नन्वभूतार्थभावनाब
लजं भवतापि स्पष्टाभमविकल्पञ्च सिद्धान्ते नेष्यते
इति तेन सह विरोध इत्या929 ह (।)

अशुभा पृथिवी-कृत्स्नाद्यभूतमपि वर्ण्यते ।
स्पष्टाभं निर्विकल्पञ्च भावनाबलनिर्मितम् ॥ २८४ ॥

अशुभा विनीलकविपूयकास्थिसंकलादिका पृथ्वीकृत्स्नादि भूमयत्वादि
अभूतमसत्यमपि भावनाबलेन निर्मितं स्पष्टाभं निर्व्विकल्पकञ्चास्माभिर्व्वर्ण्ण्यत इति नास्ति सिद्धान्तविरोधः । (२८४)

  1. योगिनामप्यागमविकल्पाव्यवकीर्णमर्थमात्रदर्शनं प्रत्यक्षमिति व्याचष्टे ।

  2. यद् भाव्यते तत् स्फुटं स्यादित्यस्य दृष्टान्तोयं श्लोकः ।

  3. अनुमेयं ।

  4. द्विधा स्वप्नज्ञानं स्पष्टमेकमन्यदतीतस्वप्नाकारं ।