204
तस्माद् भूतमभूतं वा यद् यदेवाभिभाव्यते ।
भावनापरिनिष्पत्तौ तत् स्फुटाकल्पधीफलं ॥ २८५ ॥

यतो भावनाया भाव्यस्पष्टतायामाधिपत्यं । तस्माद् भूतमार्यसत्यादि अभू
तम
शुभादि यद्यदेवात्यन्तं भाव्यते । तद् भाव्यमानं भावनायाः सादरनिरन्तरदीर्घ
कालप्रवर्त्तितायाः परिनिष्पत्तौ
स्फुटा कल्पधीः
सा फलं यस्य तत्तथा ।
(२८५)