तत्र प्रमाणां सम्वादि यत्; प्राङ् निर्णीतवस्तुवत् ।
तद् भावनाजं प्रत्यक्षमिष्टं शेषा उपप्लवाः ॥ २८६ ॥

तत्र भावनाबलभाविषु स्पष्टानिर्व्विकल्पेषु यत्संवादि उपदर्शितार्थप्रापकं
तद् भावनाजं प्रत्यक्षं प्रमाणमिष्टं ।

किमिवेत्याह (।)

प्राक् प्रथमपरिच्छेदे निर्ण्णीतं वस्तु सत्यचतुष्टयं तस्मिन्निव । यथा आर्य
930त्त्यविषयं भावनाबलजं संवादित्वात्प्रत्यक्षं प्रमाणमेवमन्यदपीदृशं । शेषा931
अयथार्था उपप्लवा
भ्रमा यथा अशुभा पृथ्वीकृत्स्नादिप्रत्ययाः । (२८६)

  1. अव्यतिभिन्नाथो नरव्यापितार्थ उक्तः ।

  2. मात्रशब्दव्यवच्छेद्याः ।