176
अथ कस्माद् द्वयाधीनजन्म तत्तेन नोच्यते ॥ १९१ ॥

अथ द्वयाधीनजन्मविषयेन्द्रियोत्पत्तितदिन्द्रियज्ञानमिन्द्रियेणोच्यते व्यपदिश्यते
प्रत्यक्षमिति प्रतिगतमक्षम्प्रत्यक्षमिन्द्रियाश्रितमित्यर्थः ः (।) कस्मात्पुनर्व्विषयेण
नोच्यते प्रतिविषयमिति ॥ (१९१)

न खलु व्यसनितया व्यपदेशो नियुज्यते । अपि तु (।)

समीक्ष्य गमकत्वं हि व्यपदेशो न गृह्यते ।
तच्चाक्षव्यपदेशेस्ति तद्धर्मश्च नियोज्यताम् ॥ १९२ ॥

गमकत्वं समीक्ष्य परिभाव्य । तच्च गमकत्वमक्षेण व्यप
देशे
प्रत्यक्षमित्य
त्रास्ति807 तस्य गमकत्वस्य व्यापकस्य धर्म्मो व्याप्यभूतो नियोज्यतां ।808(१९२)

ततो लिङ्गस्वभावोत्र व्यपदेशे नियोज्यताम् ।
निवर्त्तते व्यापकस्य स्वभावस्य निवृत्तितः ॥ १९३ ॥

ततो व्याप809काभावात् व्यपदेशे धर्म्मिणि अत्र गमकत्वे साध्ये नियोज्यतां लिङ्गं । प्रतिविषयमिति व्यपदेशात् व्यापकस्य गमकत्वस्य निवृत्तितो निवर्तते नियोज्यतेति व्यापकानुपलब्ध्या तत्र नियोज्यत्वाभावः सिद्धः । (१९३)

क. अक्षाणां गमकत्वात् प्रत्यक्षम्

सञ्चितः समुदायः स सामान्यं तत्र चाक्षधीः ।
सामान्यबुद्धिश्चावश्यं विकल्पेनानुबध्यते ॥ १९४ ॥

ननु सञ्चितालम्बनाः पञ्च विज्ञानकाया इति सिद्धान्तः । तत्रा810नेकार्थ
जन्यत्वात् स्वार्थे सामान्यगोतर
मिति चोक्तं811 । तथा च परमाणूनां समुदा812यः

  1. रूपशब्दादेः ।

  2. अर्हता ।

  3. पूर्व्वार्द्धेनान्वयो द्वितीयेन व्यतिरेकः ।

  4. यच्च वसुबन्धुनोक्तं । आयतनस्वलक्षणं चक्षुर्ग्राह्यत्वादि तत्प्रतिज्ञानानि स्वलक्षणविषयाणि, न द्रव्यं स्वलक्षणं प्रति । एकपरमाणु ।

  5. [प्रमाण] समुच्चये ।

  6. रूपशब्दादेः अष्टद्रव्यत्वात् ।