यत एवं (।)

तस्मात्तस्याविकल्पेपि प्रामाण्यं प्रतिषिध्यते ।
विसंवादात्तदर्थं च प्रत्यक्षाभं द्विधोदितम् ॥ ३०० ॥

तस्मात् कल्पनापोढमित्युक्ते तिमिरज्ञानस्याविकल्पे निर्व्विकल्पत्वेपि सति
प्रामाण्यं प्रत्यक्षात्मकं प्राप्तं सतैमिरमित्यपवादेन विसम्वादात् प्रतिषिध्यते ।
संवादलक्षणत्वात्प्रामाण्यस्य । तदर्थमुपप्लुतज्ञाननिवृत्त्यर्थ चाचार्य दिङ् ना गे न प्रत्य
क्षाभं संक्षेपतो द्विधोक्तं सविकल्पमविकल्पञ्च । उक्तं प्रत्यक्षाभं ॥ XX ॥(३००)