यदाकारं ज्ञानं स्यात्तस्यानुभवः संस्कारश्च भवेत् । तस्माच्च ग्रहणप्रति
नियमः । अनुभवस्थित्यभावे तु सर्व्वमव्यवस्थितं ।

क्रियाकरणयोरैक्यविरोध इति चेदसत् ।
धर्मभेदाभ्युपगमाद्;

क्रियाकरणयोरधिगमाकारयोरैकात्म्ये विरोध इति चेत् । असदेतत् । धर्म
भेद
स्य व्यावृत्त्युपक
ल्पितस्याभ्युपगमात् । अनाकारव्यावृत्तिः प्रमाणं । अनधिगति
व्यावृत्तिश्च फलमिति नानयोरैक्यं ।

कथन्तर्ह्युक्तं (।)

सा च तस्यात्मभूतैव तेन नार्थान्तरं फलमि
(२।३०७)
त्याह (।)

वस्त्वभिन्नमितीष्यते ॥ ३१८ ॥

परमार्थतो ज्ञानात्मकं वस्त्वभिन्नमितीष्यते । (३१८) न तु कल्पितधर्मद्वारेणपि ।
किं पुनस्तत्त्वत एव साधनाद् भिन्नाऽधिगतिश्छि दादिवन्नेष्यत इत्याह (।)

एवं प्रकारा सर्व्वैव क्रियाकारकसंस्थितिः ।
भावस्य भिन्नाभिमतेष्वप्यारोपेण वृत्तितः ॥ ३१९ ॥

सर्वैव क्रियाकारकयोः संस्थितिर्व्यवस्था एवं-प्रकारा कल्पितैव भिन्नाभि
मतेष्वपि
दारुपरश्वादिषु क्रियाकरणभाव
स्यारोपेण वृत्तितः । न हि तत्रापि कार्य
कारणवस्तुद्वयव्यतिरिक्ता क्रियास्ति । द्विधाभूतं काष्ठमेवातद्‏व्यावृत्त्या भेदान्तर
प्रतिक्षेपेण छिदेत्युच्यते । तत्कारणेषु च पुरुषकरपरश्वादिषु सामग्र्‏यन्तरवर्त्तिनः
कराच्छिदायाः अनुत्पत्तेः परशोरसाधारणं सहकारित्वमुपदर्शयितुमतद्‏व्यावृत्त्या
करणव्यपदेशः । न तु क्रियाकरणत्वमन्यदेव कार्यकरणाभ्यां । अधिगमाकार
योस्तु व्यवस्थाप्यव्यवस्थापकभावः क्रियाकरण
भावः (।) यथा यः कम्पते सोऽश्व
इति (।) उक्ता प्रमाणफलव्यवस्था ॥ X X ॥ (३१९)