अथ सोनुभवः क्वास्य

अथानुभाव्याभावे सोऽनुभवः प्रत्यात्मवेद्योऽस्य ज्ञानस्य न कर्म्मणि व्यवस्थाप
नीयः । न हि कर्मरहिता क्रिया क्वचिदस्ति ।

अत्राह (।)

तदेवेदं विचार्यते ।

यदुच्यते व्यवहर्तृ भिरिदमनेनानुभूयते इति तदेवेदमस्माभिर्व्विचार्यते । ज्ञानं
स्वप्र
काशमुपलभ्यते प्रकाशश्चोच्यत इत्ययुक्तं ।

42b
216

यच्चार्थसारूप्यमनुभवनिबन्धनमुक्तं तदप्यसम्भवीति दर्शयन्नाह (।)

सरूपयन्ति तत् केन स्थूलाभासञ्च तेऽणवः ॥ ३२१ ॥

ते परस्परं भिन्ना अणवः तज्ज्ञानं स्थूलाभासं स्थूलाकारं केन रूपेण सरूप
यन्ति966
 । यदणुस्वरूपमस्थूलमस्ति न तत् ज्ञानारूढं । यच्च ज्ञानारूढं स्थौल्यं नाणुषु
तदस्ति । (३२१)

  1. अवयवी सौन्त्रान्तिकेनैव निरस्तः ।