तन्नार्थरूपता तस्य सत्यांर्थाव्यभिचारिणी ।
तत्सम्वेदनभावस्य न समर्था प्रसाधने ॥ ३२२ ॥

तस्मात्तुल्यज्ञानस्य नार्थरूपताऽस्ति । सत्यां वार्थरूपतायां व्यभिचारिणी सा
द्विचन्द्रज्ञानादिषु । ततश्च तत्संवेदनभावस्यार्थसंवेदनत्वस्य प्र
साधने
षु साऽर्थ
रूपता न समर्था । न केवलादर्थसारूप्यादर्थसंवेदनत्वं येन व्यभिचारः स्यात्(।)
किन्तर्हि सारूप्यतदुत्पत्तिभ्यां(।) ते च द्विचन्द्रज्ञानादीनां न स्तः । चन्द्रद्वयस्याभावात्
तदुत्पत्तेरयोगात् । (३२२)