83 च ? अन्यथापीत्यत्राह—

न लिङ्गवचने भिन्ने न हीनाधिकतापि वा ।
उपमादूषणायालं यत्रोद्वेगो न धीमताम् ॥ ५१ ॥

लिङ्गमिदं प्रसिद्धमङ्गसन्निवेशादिलक्षणं स्त्रीत्वादि । वचनमेकवचनादि । ते द्वे भिन्ने विजातीये । हीनतोपमावस्तुनो जात्यादिना अधिकतापि वा । सर्वमेतत् उपमायां दूषणाय विरोधार्थं नालं न समर्थमित्युत्सर्गः । तत्रापवादमाह—यत्रेत्यादि । यत्र क्वचिद् विषये धीमतां कवीनामुद्वेगोऽप्रीतिरसम्मतिर्न भवति तादृशि प्रहते प्रयोगमार्गे नायं दोषः । यस्त्वप्रहतोऽशिष्टो विषयः तत्रायं दोष इत्यर्थादुक्तं भवति । तं च दर्शयिष्यतीति ॥

तदुदाहरति—

स्त्रीव गच्छति षण्डोऽयं वक्त्येषा स्त्री पुमानिव ।
प्राणा इव प्रियोऽयं मे विद्या धनमिवार्जिता ॥ ५२ ॥

अयं षण्डः षण्डकः स्त्रीव गच्छति तच्चेष्टानुवृत्तेः । एषा स्त्री पुमानिव पुरुष इव वक्ति तादृशप्रागल्भ्ययोगात् । अत्र लिङ्गनानात्वमुपमानोपमेययोः । अयं विवक्षितः कश्चिन्मम प्रिय इष्टः प्राणा इव । विद्या व्याकरणादयः अर्जिता धनमिवेति वचनभेदः । एवंविधे समुचिते विषये लिङ्गवचनभेदो नोपमां दूषयति । प्रत्युत रसावह इति ॥

हीनाधिकतामुदाहरन्नाह—

भवानिव महीपाल ! देवराजो विराजते ।
अलमंशुमतः कक्षामारोढुं तेजसा नृपः ॥ ५३ ॥

महीपालेत्यामन्त्रणम् । भवानिव देवराजो विराजत इति । हीनेनाधिक