तदुदाहरति—

स्त्रीव गच्छति षण्डोऽयं वक्त्येषा स्त्री पुमानिव ।
प्राणा इव प्रियोऽयं मे विद्या धनमिवार्जिता ॥ ५२ ॥

अयं षण्डः षण्डकः स्त्रीव गच्छति तच्चेष्टानुवृत्तेः । एषा स्त्री पुमानिव पुरुष इव वक्ति तादृशप्रागल्भ्ययोगात् । अत्र लिङ्गनानात्वमुपमानोपमेययोः । अयं विवक्षितः कश्चिन्मम प्रिय इष्टः प्राणा इव । विद्या व्याकरणादयः अर्जिता धनमिवेति वचनभेदः । एवंविधे समुचिते विषये लिङ्गवचनभेदो नोपमां दूषयति । प्रत्युत रसावह इति ॥