तदीदृशं सर्वं सुन्दरमिति दर्शयति—

इत्येवमादेः सौभाग्यं न जहात्येव जातुचित् ।
अस्ति च क्वचिदुद्वेगः प्रयोगे वाग्विदां यथा ॥ ५४ ॥

इत्येवमनन्तरोक्तं लक्ष्ममादिर्यस्यान्यस्यापि तज्जातीयस्य लक्ष्यजातस्य तद् [वर्णनं] न जातुचित् न कदाचिदपि सौभाग्यं शोभां जहाति त्यजत्येव । सदैव सुभगमीदृशमित्यर्थः । भिन्नलिङ्गवचनादि किञ्चिदुद्वेगकरं विपश्चितामिति कथयतिक्वचित् प्रयोगे लक्ष्ये न सर्वत्र । उद्वेगे वैमुख्यमनादरः । अस्ति, च न केवलं नास्ति । वाग्विदां शब्दहृदयज्ञानां कवीनाम् । यथेत्युदाहरति ॥