हंसीवःधवलश्चन्द्रः सरांसीवामलं नभः ।
भर्तृभक्तो भटः श्वेव खद्योतो भाति भानुवत् ॥ ५५ ॥

हंसीव धवलश्चन्द्र इति लिङ्गभेदः । सरांसीवामलं नभ इति वचनभेदः । भर्तृभक्तो भटः श्वेवेति हीनेन जात्यादिना अधिक उपमितः । खद्योतो ज्योतिरिङ्गणः भाति भानुवत् इत्यधिकेन हीन उपमीयत इति ॥