103a आवृत्तिरभ्यासः । कथं ? प्रातिलोम्येन प्रतीपतया लक्षिता, नानुलोम्येन, किंविषया ? पादश्चार्धश्च प्रकरणात् श्लोकस्य, श्लोकश्च [तेषां] समुदायः गोचरो विषयो यस्या इति पादार्धश्लोकगोचरा । पादगोचरा, अर्धविषया, श्लोकाश्रया चेति त्रिविधमनूद्य प्रतिलोमं नाम यमकं स्मृतमिति विधीयते । कुतः ? प्रतिलोमत्वात् तस्या इति गम्यते । प्रतिलोमेति कृत्वा । यत् त्वनुलोम्ना स पादाभ्यासादिरिति भावः ॥

तदुदाहरन्नाह—

यामताश कृतायासा सा याता कृशता मया ।
रमणारकता तेऽस्तु स्तुतेताकरणामर ॥ ७४ ॥

कृशस्य भावः कृशता । कृतो जनित आयासः श्रमो ययेति कृतायासा । या कृशता दौर्बल्यम् । सा याता प्राप्ता मया अमता प्रतिकूलतां [गता] आशा, अर्थात्