104b सा काचिदिष्टा रामा स्त्री मासा चन्द्रेण अमा सह माराय नाशार्थम् अस्माकमुपस्थितेति शेषः । कीदृशीति सा विशेष्यते । या रामा अमस्य पीडाया आयामो दीर्घता यस्य इत्यमायामा पीडावती मा न भवति । अदुःखनिमित्तं तप्यत इत्यर्थः । तदेव कुतः ? मारस्या कामस्य आनायो जालं जगद्बन्धनं किमपि तत् । अयानमगमनमपतनं यस्या इति मारानायायाना । यतोऽस्याः सुमन्दो रागः, तस्माद् अस्मद् दुःखेन [न] तप्यत इत्यर्थः । सा कीदृशीति पुनर्विशिष्यते [यानं पादयुगम् आवृणोतीति यानावारः, तस्य आरावः शब्दो वर्तते यत्र सा] यानावारारावा, अत एव आनं प्राणमायातीति आनाया बलीयसी माया परव्यामोहो फलोपायश्च आरामः क्रीडाभूमिरस्या इति मायारामा या ईदृशी सा माराय अस्माकमिति [योज]नीयम् । इदं सर्वतोभद्रम् ॥

स्वरस्थानवर्णप्रतिनियमलक्षणं दुष्करं दर्शयन्नाह—

यः स्वरस्थानवर्णानां नियमो दुष्करेष्वसौ ।
इष्टश्चतुःप्रभृत्येषु दर्श्यते सुकरः परः ॥८३ ॥

स्वरः अकारादिः । स्थानं च यद्भवो वर्णः कण्ठादिः । वर्णश्च व्यञ्जनं ककारादिः [तेषां] स्वरस्थानवर्णानां नियमः व्यवस्था इयत्ता, योऽसौ नियमो दुष्करेषु वर्णेषु मध्ये इष्टस्तज्ज्ञैः सोऽपि दुष्कर इत्यर्थः । एष च नियमः चतुर्भ्यः प्रत्येकस्वरस्थानवर्णेभ्यः प्रभृति आरभ्य चतुर्षूपादाय [क्रमशो न्यूनतया] एकं स्वरं स्थानं वर्णं वा यावद् दर्श्यते उदाह्रियते । तादृशस्य दुष्करत्वात् । न पञ्चप्रभृति, तस्य सुकरत्वात् । यदाह परः,—पञ्चप्रभृतिनियमः स्वरस्थानवर्णकृतः सुकरमुखेन क्रियते । तस्मान्नासौ निर्दिश्यते दुष्कर इति ॥