110a मन्त्रणमेतत् । खातयः किंङ्किणिकाः नू पुरादिरूपा स्फातयः स्फीताः पर्याप्तशोभाः स्फीतवल्गवः मधुरघनारसाः साक्षाद्भवन्ति । प्रत्यक्षतामुपयान्ति । तन्निनदग्रहणादाकर्णान्तचक्षुषा वा गृह्यन्त इत्यर्थः । अत्रेदृशमनोज्ञवस्तुसाक्षात्करणे मम वायवः प्राणाः । रागाभिभवात् चारिणोऽनवस्थायिनः । यान्तीत्यर्थः । एवं दुर्बोधार्थपदप्रयोगात् प्रमुषितेयं लक्षितेति ॥

अत्रोद्याने मया दृष्टा वल्लरी पञ्चपल्लवा ।
पल्लवे पल्लवे चार्द्रा यस्याः कुसुममञ्जरी ॥ ११२ ॥

वल्लरीति स्त्रीत्वसाधर्म्येण काचिद् योषिद् विवक्षिता । पल्लवशब्देन च तत्साम्यादङ्गुलयः कुसुममञ्जरीति च तत्सादृश्यात् नखाः । शेषं सुगमम् । एवं गौणार्थप्रयुक्तैर्वल्लरीत्यादि शब्दैः साधितेयं समानरूपा निरूपितेति ॥

सुराः सुरालये स्वैरं भ्रमन्ति दशनार्चिषा ।
मज्जन्त इव मत्तास्ते सौरे सरसि संप्रति ॥ ११३ ॥

सुरां कुर्वन्तीति तत्करोति तदाचष्ट इति णिजन्तात् सुरयतीति कर्तर्यचि विहिते सुराः शौण्डिकाः । मत्तास्ते केचित् विवक्षिताः । सुराया आलये मदिरामन्दिरे सम्प्रति स्वैरं यथेष्टं भ्रमन्ति । दशनार्चिषा दन्तप्रभया परितः स्फुरन्त्या लक्षिताः । सुराया इदं सौरे मद्यसरसि ह्रदे मज्जन्त इव लक्ष्यमाणाः । सुरा इत्यस्य शौण्डिकेषु सुरासम्बन्धिनि च सौर इत्यस्याप्रसिद्धेः । लक्षणस्य च तादृशस्य सम्भवात् परुषेयम् आविष्कृतेति ॥

नासिक्यमध्या परितश्चातुर्वण्यविभूषिता ।
अस्ति काचित् पुरी यस्यामष्टवर्णाह्वया नृपाः ॥ ११४ ॥

नासिक्यो वर्णो ञकारोऽत्र विवक्षितः । मध्ये मध्यो वा यस्याः सा नासिक्यमध्या । परित आद्यन्ततः । चतुर्भिर्वर्णैः विभूषिता अस्ति वर्तते पुरी काचित् ।