नासिक्यमध्या परितश्चातुर्वण्यविभूषिता ।
अस्ति काचित् पुरी यस्यामष्टवर्णाह्वया नृपाः ॥ ११४ ॥
नासिक्यो वर्णो ञकारोऽत्र विवक्षितः । मध्ये मध्यो वा यस्याः सा नासिक्यमध्या । परित आद्यन्ततः । चतुर्भिर्वर्णैः विभूषिता अस्ति वर्तते पुरी काचित् ।247 यस्यां पुर्यामष्टौ वर्णा आह्वयः संज्ञा येषामित्यष्टवर्णाह्वया नृपा राजानः सन्ति । अत्र काञ्ची पुरी पल्लवाश्च तस्यां नृपा इति परमार्थः । चतुरादिसंख्योपादानं तु तद्विवक्षितार्थव्यामोहकरमिति संख्यातेयमाख्यातेति ॥