247 यस्यां पुर्यामष्टौ वर्णा आह्वयः संज्ञा येषामित्यष्टवर्णाह्वया नृपा राजानः सन्ति । अत्र काञ्ची पुरी पल्लवाश्च तस्यां नृपा इति परमार्थः । चतुरादिसंख्योपादानं तु तद्विवक्षितार्थव्यामोहकरमिति संख्यातेयमाख्यातेति ॥

गिरा स्खलन्त्या नम्रेण शिरसा दीनया दृशा ।
तिष्ठन्तमपि सोत्कम्पं वृद्धे ! मां नानुकम्पसे ॥ ११५ ॥

स्खलन्त्या दौर्गत्योपहतस्येश्वरेषु प्रतिभाक्षयगृहीतस्य व्याकुलवचनत्वाद्, रागादेशाच्चेति द्वैधम् । नम्रेण शिरसा दुर्विधस्य पराराधनपरत्वात् रागरसाच्चेति अपरं द्वैधम् । दीनया दृशा दरिद्रेण निरानन्दत्वात्