गिरा स्खलन्त्या नम्रेण शिरसा दीनया दृशा ।
तिष्ठन्तमपि सोत्कम्पं वृद्धे ! मां नानुकम्पसे ॥ ११५ ॥

स्खलन्त्या दौर्गत्योपहतस्येश्वरेषु प्रतिभाक्षयगृहीतस्य व्याकुलवचनत्वाद्, रागादेशाच्चेति द्वैधम् । नम्रेण शिरसा दुर्विधस्य पराराधनपरत्वात् रागरसाच्चेति अपरं द्वैधम् । दीनया दृशा दरिद्रेण निरानन्दत्वात् 110b अभिमतरागविषयासिद्धेश्चेत्यपरं द्वैधम् । सोत्कम्पमत्यन्तं क्षीणत्वात् कामावेशाच्चेति इदमपि द्विधा । वृद्धा शब्दस्य जरतीवाचिनः संबोधने वृद्धे इति । [तथैव] वृद्धाशब्दस्य लक्ष्मीवचनस्य इत्यपरं द्वैधम् । एवं तिष्ठन्तमनुकम्पाभाजनमपि किं मां नानुकम्पसे ? अत्र कश्चिद् दरिद्रो लक्ष्मीं लभताम् इति विवक्षितो वाक्यार्थः । वृद्धां काञ्चित् योषितमाभाषते कश्चित् कामीति अन्यस्त्वर्थः प्रतिभाति । तदियं प्रकल्पिता निदर्शितेति ॥