110b अभिमतरागविषयासिद्धेश्चेत्यपरं द्वैधम् । सोत्कम्पमत्यन्तं क्षीणत्वात् कामावेशाच्चेति इदमपि द्विधा । वृद्धा शब्दस्य जरतीवाचिनः संबोधने वृद्धे इति । [तथैव] वृद्धाशब्दस्य लक्ष्मीवचनस्य इत्यपरं द्वैधम् । एवं तिष्ठन्तमनुकम्पाभाजनमपि किं मां नानुकम्पसे ? अत्र कश्चिद् दरिद्रो लक्ष्मीं लभताम् इति विवक्षितो वाक्यार्थः । वृद्धां काञ्चित् योषितमाभाषते कश्चित् कामीति अन्यस्त्वर्थः प्रतिभाति । तदियं प्रकल्पिता निदर्शितेति ॥
हे अधीराक्षि ! कोऽपि कश्चिदनिर्धारितरूपविशेषः पार्थिवः पृथिवीपतिः वृक्षश्च इति श्लिष्टम् । आदौ प्रथमतो राजेत्येवं गीयते कीर्त्त्यते । सनातनश्च गीयते । सनातनश्च शाश्वतः, विष्णुर्वा । न विद्यतेऽतनः शब्दोऽस्मिन्निति अतनः स पार्थिवः । आदौ राजेति यो गीयते, न अतनः किं तु तनः शब्दसहित एवेतिं त्रैविध्यम् । यद्वा न तन अतनः । न तथा नातनः । सह तेन वर्तत इति सनातनश्च कोऽपि पार्थिवो गीयते । स एवार्थः । व्युत्त्पत्तिमात्रेण भिद्यते । असौ पूर्वोक्तः । आदौ राजा सनातनश्च नैव राजा महीपतिराद्यः । नापि सनातनः शाश्वतो विष्णुर्वा भवति । राजातन इति वृक्षविशेषस्य नाम, यस्य क्षीरीति प्रसिद्धिः । तत्रेयं नानार्थकल्पनेति नामान्तरितेयमुदीरिता ॥