आदौ राजेत्यधीराक्षि ! पार्थिवः कोऽपि गीयते ।
सनातनश्च नैवासौ राजा नैव सनातनः ॥ ११६ ॥

हे अधीराक्षि ! कोऽपि कश्चिदनिर्धारितरूपविशेषः पार्थिवः पृथिवीपतिः वृक्षश्च इति श्लिष्टम् । आदौ प्रथमतो राजेत्येवं गीयते कीर्त्त्यते । सनातनश्च गीयते । सनातनश्च शाश्वतः, विष्णुर्वा । न विद्यतेऽतनः शब्दोऽस्मिन्निति अतनः स पार्थिवः । आदौ राजेति यो गीयते, न अतनः किं तु तनः शब्दसहित एवेतिं त्रैविध्यम् । यद्वा न तन अतनः । न तथा नातनः । सह तेन वर्तत इति सनातनश्च कोऽपि पार्थिवो गीयते । स एवार्थः । व्युत्त्पत्तिमात्रेण भिद्यते । असौ पूर्वोक्तः । आदौ राजा सनातनश्च नैव राजा महीपतिराद्यः । नापि सनातनः शाश्वतो विष्णुर्वा भवति । राजातन इति वृक्षविशेषस्य नाम, यस्य क्षीरीति प्रसिद्धिः । तत्रेयं नानार्थकल्पनेति नामान्तरितेयमुदीरिता ॥