निगृह्य केशैष्वाकृष्टा कृष्णा येनाग्रतो मम ।
सोऽयं दुःशासनः पापो लब्धः किं जीवति क्षणम् ॥ २८० ॥

येन दुरात्मना ममाग्रतः पुरस्तात् केशेषु निगृह्य अवष्टभ्य कृष्णा द्रौपदी प्रिया आकृष्टा आक्षिप्ता परिभूता, सोऽयमेप पापो दुरात्मा दुःशासनो मया भीमेन लब्धः प्राप्तः किं क्षणमेकं जीवति ? नैव जीवितुं लभते । एष मया हतो वर्तते कौरवाणां पश्यताम् । त्रिभुवनमपि संहतमेतत्परित्राणे न समर्थमिति भीमो गर्जति ॥