174

न स्तनद्वयमेतत्ते भारः कोऽप्येष दुर्वहः ।
कथं प्राणिमि तन्वङ्गि ! भृशमेतेन ताम्यसि ॥
चटुप्रधानापह्नुतिः ।
एवमन्येऽप्यपह्नुतिभेदाः कल्पनीया इति ॥

॥ इत्यपह्नुतिः ॥

क्रमप्राप्तं श्लिष्टं लक्षयति—

श्लिष्टमिष्टमनेकार्थमेकरूपान्वितं वचः ।
तदभिन्नपदं भिन्नपदप्रायमिति द्विधा ॥ ३०८ ॥

यद् वचो वचनमनेको भिन्नोऽर्थोऽभिधेयं यस्येत्यनेकार्थम् । एकेन समानेन रूपेण शब्दस्वभावेन अन्वितं युक्तं सरूपम् इत्यनूद्य श्लिष्टं तदिष्टं स्मर्यत इति विधीयते । तच्चैवं लक्षणं श्लिष्टं द्विधा प्रकारद्वयेन भिद्यते । कथम् ? अभिन्नमेकं पदं सुबन्ततिङन्तरूपं यत्र तदभिन्नपदमविकृतशब्दं भिन्नमनेकम्, पदं भङ्गेन योजनात्, प्रायमधिकं यत्र तद् भिन्नपदप्रायम् । तेन वा प्रायमधिकं किञ्चिदभिन्नमिति प्रायोग्रहणेन सूचयति । अनेन रूपेण द्विधेति प्रकृतम् ॥

उदाहरन्नाह—

असावुदयमारूढ़ः कान्तिमान् रक्तमण्डलः ।
राजा हरति लोकस्य हृदयं मृदुभिः करैः ॥ ३०९ ॥

असावयं राजा चन्द्रो नृपतिश्च । तत्र चन्द्रस्तावदुदयं पर्वतमारूढ़ः । नृपतिस्तूदयमभ्युदयं राज्यरूपमारूढ़ः प्राप्तः । चन्द्रः कान्तिमान् सौम्यः । नृपतिः कान्तिमानभिरूपः । चन्द्रो रक्तमरुणमुद