82b अयमविरुद्धक्रियः श्लेषः, आकर्णनश्लेषणयोः सहभावादिति ॥

रागमादर्शयन्नेष वारुणीयोगवर्धितम् ।
पराभवति घर्मांशुरङ्गजस्तु विजृम्भते ॥ ३१६ ॥

एष घर्मांशुरादित्यः पराभवत्यस्तमेति । अङ्गजस्तु कामो विजृम्भते समुद्भवति । वारुण्या प्रतीच्या दिशा योगेन सङ्गमेन वर्धितमुपबृंहितं रागमरुणिमानम् आदर्शयन् धर्मांशुः पराभवतीति प्रकृतम् । अङ्गजस्तु वारुण्या मदिरया योगेन पानलक्षणेन वर्धितं रागं रतिभावमादर्शयन् विभ्रमैराविष्कुर्वन् विजृम्भत इति प्रक्रान्तम् । अयं विरुद्धक्रियः श्लेषः, पराभवविजृम्भणयोरस्तमयोदयरूपयोः परस्परविरोधात् इति ॥

निस्त्रिंशत्वमसावेव धनुष्येवास्य वक्रता ।
शरेष्वेव नरेन्द्रस्य मार्गणत्वं च वर्तते ॥ ३१७ ॥

अस्य नरेन्द्रस्य कस्यचिन्निस्त्रिंशत्वम् असौ खङ्ग एव वर्तते न म[न]सि निस्त्रिंशत्वम् । असित्वं क्रौर्यं चेति श्लिष्टम् । धनुष्येव वक्रता । न चेतसि वक्रता । नतत्वं शाठ्यं चेति श्लिष्टिः । शरेषु बाणेष्वेव मार्गणत्वं नात्मनि । मार्गणत्वं शरत्वं याचकत्वं चेति श्लिष्यते । अयं नियमवान् श्लेषः । असावेवेत्यवधारणप्रयोगादिति ॥

पद्मानामेव दण्डेषु कण्टकस्त्वयि रक्षति ।
अथवा दृश्यते रागिमिथुनालिङ्गनेष्वपि ॥ ३१८ ॥

देव ! त्वयि रक्षति जगतीं पद्मानां [एव] दण्डेषु नालेषु कण्टको दृश्यते, न राज्ये । कण्टकः कार्कश्यलक्षणः, पद्मदण्डेषु राजविपक्षश्चेति श्लिष्टत्वात् । अयं नियम आक्षिप्यते । अथवा कथम् नियम्यते ? यतो रागिणां वा मिथुनानि स्त्रीपुंसयुग्मलक्षणानि तेषामन्योन्यालिङ्गनेष्वपि विषये[षु] कण्टकः रागजनितपुलकरूपो दृश्यते । तत्कथमेवमवधार्यत इति नियमाक्षेपरूपोक्तिरयं श्लेष इति ॥

महीभृद्भूरिकटकस्तेजस्वी नियतोदयः ।
दक्षः प्रजापतिश्चासीत् स्वामी शक्तिधरश्च सः ॥ ३१९ ॥