178 स विवक्षितः कश्चिन्महीभृत्पर्वतः राजा च, भूरयो महान्तः कटकाः सानवो यस्य पर्वतस्य । भूरिर्विशालः कटकः स्कन्धावारः हस्ताभरणविशेषो वा यस्य स भूरिकटको राजा । तेजस्वी रविः प्रभावविशेषयुक्तश्च नियतः प्रतिदिनमुदयः प्रभावलक्षणो यस्य स नियतोदयो रविः, नियतः स्थिरः उदयो राज्यरूपो यस्य स नियतोदयो राजा । दक्षो नाम प्रजापतिर्विधाता कश्चित् । राजा च दक्षः शूरः प्रजानां लोकानां च