179 गुणश्च जातिश्च क्रिया च आदिशब्देन द्रव्यपरिग्रहः । तेषां वैकल्यस्याभावस्य दर्शनं वचनं यत्तत् । किमर्थम् ? विशेषस्यातिशयस्य कस्यचित्कार्यविषयस्य दर्शनाय प्रतिपादनार्थमेव । अत एव विशेषपरत्वात् सा तल्लक्षणा विशेषोक्तिरिष्यते मनीषिभिरिति ॥

तामुदाहरन्नाह—

न कठोरं न वा तीक्ष्णमायुधं पुष्पधन्वनः ।
तथापि जितमेवासीदमुना भुवनत्रयम् ॥ ३२२ ॥

पुष्पधन्वनः कामस्यायुधं कुसुम[म]न्यद्वा तादृशं न कठोरं न कठिनम् न च अतितीक्ष्णं न च निशातं यथान्यत्, आयुधमयोमयं तेजितं खड्गादि तथाप्येवमपीति विशेषविवक्षायाम् । यदाह—अमुना पुष्यधन्वना आयुधेन वा भुवनानां स्वर्गादीनां त्रयं कृत्स्नं जगत् जितमाक्रान्तमेव नाजितमपि आसीदभवत् ।