मृणालबाहु रम्भोरु पद्मोत्पलमुखेक्षणम् ।
अपि ते रूपमस्माकं तन्वि ! तापाय कल्पते ॥ ३३५ ॥

मृणालवद्बाहू रम्भा कदली तद्वदूरू पद्ममिव मुखमुत्पलवदीक्षणे यत्र तत्तादृशमत्यन्तशीतवस्तुसरूपमपि रूपं ते तव सम्बन्धि तन्वि ! तापाय तप्त्यर्थमस्माकं कल्पते 85a भवति । किमिदं विरुद्धम् ? अत्र शीतगुणस्य तद्वतो वा द्रव्यस्य बाहुप्रभृतेः तत्समुदायस्य वा रूपस्य शरीरद्रव्यस्य तापेनोष्णताकारिकर्मणा सह विरोध इति द्रष्टव्यम् ॥