85a भवति । किमिदं विरुद्धम् ? अत्र शीतगुणस्य तद्वतो वा द्रव्यस्य बाहुप्रभृतेः तत्समुदायस्य वा रूपस्य शरीरद्रव्यस्य तापेनोष्णताकारिकर्मणा सह विरोध इति द्रष्टव्यम् ॥

उद्यानमारुतोद्धूताश्चूतचम्पकरेणवः ।
उदश्रयन्ति पान्थानामस्पृशन्तोऽपि लोचने ॥ ३३६ ॥