183 अरुणचरणचञ्चवो हंसविशेषा राजहंसाः । तेषां कूजितम् निनदः मदेन सामयिकेन हर्षोत्कर्षेण मञ्जुलं मधुरं वर्धते विजृम्भते । मयूराणां च रुतं कूजितं पुनरुत्क्रान्तमपगतं सौष्ठवमुत्कर्षो यतः, तत् क्षीयते निवर्तते । वृद्धिक्षययोः क्रियापदार्थयोः विरुद्धयोर्मिथः संसर्गस्यैकत्र सन्निधेर्दर्शनमिति लक्षणं योज्यम् ॥

प्रावृषेण्यैर्जलधरैरम्बरं दुर्दिनायते ।
रागेण पुनराक्रान्तं जायते जगतां मनः ॥ ३३३ ॥

जलधरैः प्रावृषि भवैः कारणैः अम्बरमाकाशं दुर्दिनायते भिन्नाङ्गं जायते । जगतां मनः पुनस्तै रेव रागेण रतिभावेनाक्रान्तं विषयीकृतं रक्तं जायते । अत्र दुर्दिनत्वरक्तत्वयोर्विरागरागरूपयोः गुणपदार्थयोः विरोधप्रतिपत्तिरिति लक्षणं योज्यम् ॥

तनुमध्यं पृथुश्रोणि रक्तौष्ठमसितेक्षणम् ।
नतनाभि वपुः स्त्रीणां कं न हन्त्युन्नतस्तनम् ॥ ३३४ ॥

तनु कृशं मध्यम् । पृथुर्महीयसी श्रोणिः नितम्बो रक्तश्चौष्ठोऽधरः । असितं कृष्णमीक्षणमक्षि । नता निम्ना नाभिः । उन्नतौ स्तनौ यत्र तादृशं स्त्रीणां वपुः शरीरं कं नाम नरं [न] हन्ति चक्षुःप्रीतिमनःसङ्गादिक्रमेण दशमीं दशां कं न नयति ? सर्वमेतादृशं जनं हन्ति । अत्र तनुमध्यपृथुश्रोणिप्रभृतीनां शरीरावयवद्रव्याणां परस्परविरोधिनां संसर्गदर्शनमिति लक्षणं योजनीयम् ॥

मृणालबाहु रम्भोरु पद्मोत्पलमुखेक्षणम् ।
अपि ते रूपमस्माकं तन्वि ! तापाय कल्पते ॥ ३३५ ॥

मृणालवद्बाहू रम्भा कदली तद्वदूरू पद्ममिव मुखमुत्पलवदीक्षणे यत्र तत्तादृशमत्यन्तशीतवस्तुसरूपमपि रूपं ते तव सम्बन्धि तन्वि ! तापाय तप्त्यर्थमस्माकं कल्पते