86a स्तुतेरियं भिद्यते । तत्र हि दोषे गुणः कश्चिदेव प्रती[य]ते । यदुक्तम्—

दोषाभासो गुणः कोऽपि दर्शितश्चाटुकारिता ।
98 इति । सन्निधिमवस्थानं लभन्ते प्रतीयन्त इति यावत् । अत्र व्याजस्तुतौ । ततः स्तुतिरेवेयम् सर्वथा [न] निन्दा काचिदपीति99 ॥

तामुदाहरन्नाह—

तापसेनापि रामेण जितेयं भूतधारिणी ।
त्वया राज्ञापि सैवेयं जिता मा भून्मदस्तव ॥ ३४२ ॥

  1. २. २००
  2. अत्र श्लोकव्याख्यायां किमपि त्रटितमिति प्रतिभाति ।