उदाहरन्नाह—

उदयन्नेव सविता पद्मेष्वर्पयति श्रियम् ।
विभावयितुमृद्धीनां फलं सुहृदनुग्रहम् ॥ ३४७ ॥

सविता रविरुदयन्नेवोदयमासादयन्नेव पद्मेषु श्रियं विकाशरूपामर्पयति निधत्ते । उदयपूर्वकेण पद्मविकाशेनार्थान्तरेण सदृशं फलं निदर्शयति-सुहृदामाश्रितान मनुग्रहमुपकारं नाम फल87a कार्यमृद्धीनामभ्युदयानां विभावयितुं दर्शयितुमिति सत्फलमिदं निदर्शितं सुहृदनुग्रहम्याभीक्ष्णत्वादि[ति] ॥