190 संप्रति विरहातुरस्य मम श्वासैर्निश्वसितैः सह दीर्घा आयता इमा रात्रयो वर्तन्ते । ममैवाङ्गैरवयवैर्विरहविधुरैः सह पाण्डुराश्चन्द्रो भूषणमासामिति चन्द्रभूषणाः । पाण्डुरत्वे निमित्तमिदमुक्तम् । अत्र दै[र्घ्य]स्य पाण्डुरत्वस्य चोभयसम्बन्धिनः सहभाव उक्तः । निश्वासा रात्रयश्च दीर्घा अङ्गानि रात्रयश्च पाण्डुरा युगपद्भवन्तीति ॥

वर्धते सह पान्थानां मूर्छया चूतमञ्जरी ।
पतन्ति च समं तेषामसुभिर्मलयानिलाः ॥ ३५१ ॥

पान्थानां वियोगिनां मूर्च्छया मोहनतया सह[चूतस्य] मञ्जरी सहकारकलिका वर्धते । तेषां पान्थानामसुभिः प्राणैः समं सह मलयानिलाः दक्षिणमरुतः पतन्ति च । अत्र वर्धनयोः पतनयोश्च उभयाधारयोः क्रिययोः सहभावोऽमिहितः । सहजचित्रहेतुगर्भा चेयं सहोक्तिरिति ॥

कोकिलालापसुभगाः सुगन्धिवनवायवः ।
यान्ति सार्धं जनानन्दैर्वृद्धिं सुरभिवासराः ॥ ३५२ ॥

कोकिलानामालापैः सुभगा मनोहराः सुगन्धयो वनवायवो येषामिति सुगन्धिवनवायवः सुरभेर्वसन्तस्य वासरा दिवसा जनानामानन्दैः प्रीतिभिः सार्धं सह वृद्धिं यान्ति । वर्धन्त इति यावत् । अत्रोभयाधिकरणयोर्वर्धनक्रिययोः सहभावो दर्शितः । इयमभिन्न[क्रिया] । क्रियान्तरात्तु भिन्नक्रिया इत्यनयोर्भेदः प्रतिपत्तव्य इति ॥

सहोक्तिमुप[संहरति]—

इत्युदाहृतयो दत्ताः सहोक्तेरत्र काश्चन ।

इत्युक्तेन विधिना