मुग्धे ! तव मुखस्य श्रियं शोभामरविन्दानि पद्मान्याक्षिपन्ति । त्वन्मुखसदृशानि इति यावत् । इयमुपमा । कथमेतदिति साध्यते—कोशः पद्मगर्भो धनसम्भारश्च, दण्डो नालं चतुरङ्गबलमिति च श्लिष्टम् । ताभ्यां समग्राणां पर्याप्तानामेषामरविन्दानां दुष्करम् असाध्यं कार्यं किमस्ति किञ्चित् ? सर्वमेव साध्यं यत्त्वन्मुखश्रियमप्याक्षिपन्ति इत्यङ्गाङ्गिभाव[ा]वस्थानवत्याः संसृष्टेरुदाहरणमेतत्, उपमायाः साध्यत्वेनाङ्गितयावस्थानात् । 89a कोशेत्यादेश्चार्थान्तरन्यासस्य श्लेषानुविद्धस्य साधनत्वेनाङ्गतया स्थितेरित्यलङ्कारत्रयं संसृष्टमङ्गाङ्गिभूतं वर्णितम् । उपमा अर्थान्तरन्यास इत्यलङ्कारद्वयं वा । श्लेषस्त्वर्थान्तरन्यासात्मनैव अवस्थितः, न पृथक् संख्यायत इति ।
समकक्षा तु संसृष्टिः नोदाहृता । सा त्वेवं द्रष्टव्या—
इयं जात्युपमासंसृष्टिः समकक्षेति ॥108
इति भासशूद्रकस्वीकृतं श्लोकं समकक्षाया उदाहरणत्वेन पठन्ति ।
196-
अत्र केचन मूल एव
↩