196

कोशदण्डेत्यादिना यद्यर्थान्तरन्यासोऽङ्गतयोपन्यस्तः किं तत्र श्लेषेण ? अथ श्लेषः, स एवास्तु किमर्थान्तरन्यासेन ? तदयं न श्लेषो नार्थान्तरन्यासः शुद्धः । न चैतद्द्वयरूपा संसृष्टिरङ्गाङ्गिभावाप्रतीतेरनयोस्तदुदाहरणं चेदमुपमाया एव । [तम्याः] त्वङ्गित्वेनावसायादस्य त्वङ्गताप्रतीतेरित्यत आह—

श्लेषः सर्वासु पुष्णाति प्रायो वक्रोक्तिषु श्रियम् ।
भिन्नं द्विधा स्वभावोक्तिर्वक्रोक्तिश्चेति वाङ्मयम् ॥ ३६० ॥

श्लेषोऽयमुक्तलक्षणः स्वभावोक्ति जात्यपरपर्यायां मुक्त्वा सर्वासूपमादिषु न कस्याञ्चिदेव, पदार्थस्वभावस्य यथावस्थानात् । अन्यथा तथा तथा परिकल्पनरूपासु वक्रासूक्तिषु श्रियं शोभां पुष्णात्यावहति प्रायो बाहुल्येन । क्वचिदप्रयोगादस्य प्राय इत्याह । तथा चालङ्कारा जातिवर्ज्याः सर्वे श्लेषानुगता एव प्रायः प्रागुदाहृता । जातौ वा क्वचित् प्रयोगात् प्राय इत्युक्तम् । तदयमप्यर्थान्तरन्यासः वक्रोक्तिस्वभावः श्लेषगर्भोऽङ्गतयोपन्यस्त इति । श्लेषैकदेशे एकोऽलङ्कारः । भेदविवक्षया वा अलङ्कारद्वयमिति द्रष्टव्यम्, यथोक्तं प्राक् । सर्वमिदमलङ्कारजातम् अनेनैव राशिद्वयेन व्यवहार लाघवार्थं संगृह्णन्नाह- वाङ्मयं सर्वमेतदलङ्कारजातं द्विधा, नान्यप्रकारावस्थामवतिष्ठते । कथम् ? स्वभावोक्तिर्जातिः पूर्वोक्तलक्षणा यथावस्थितविचित्रपदार्थपरिदीपनरूपा, वक्रोक्तिश्च वस्तुस्वभावस्य तथातथान्यथाभिधानस्वभावा पूर्वोक्तविचित्रप्रभेदा उपमादिरुक्तिश्चेत्यनेन रूपेण द्विधेति प्रकृतम् ॥

॥ इति संसृष्टिः ॥

भाविकत्वमुद्भावयन्नाह—

भाविकत्वमिति प्राहुः प्रबन्धविषयं गुणम् ।
भावः कवेरभिप्रायः काव्येष्वासिद्धि यः स्थितः ॥ ३६१ ॥

प्रबन्धः पद्यगद्यमिश्रात्मकस्त्रिविधः सन्तानः प्रबध्यते विरच्यतेऽसाविति । स विषयो यस्य स प्रबन्धविषयः काव्यसमुदायगोचरः । नैकदेशाधिकरणं तं प्रबन्धविषयं गुणं वि