सम्प्रति स्वरूपतस्तं विभजन्नाह—
वस्तुनः प्रबन्धार्थस्य समुदायस्य पर्वाण्येव यथा नगरवर्णनादयः । वस्तुनि च तानि पर्वाणीति वा । वस्तुपर्वणां काव्यार्थसंघातसन्धीनाम् अङ्गानि समुदायपर्वणामिव परस्परस्योपकारित्वमन्योन्याङ्गाङ्गिभावेन सापेक्षाणामवस्थानम् । न तु स्वतन्त्राणामयःशलाकानामिव परस्परासंघट्टनम् । तथाभावातिरेके प्रबन्धो नारभ्येत । ततश्च कथमस्य प्रबन्धविषयता गुणस्य ? प्रबन्धविषयं च यावत किञ्चिद् विशेष्यं सम्भवति तत्र यानि विशेषणानि तेषां विशेषणानामुपाधीनां व्यर्थानां ***विगतोऽर्थः प्रयोजनं प्रस्तुते क्वचिदुपयोगो येषां यतो वा तेषां प्रकृतानुपयोगिनां कार्ये विवक्षिते क्वचिदङ्गभावमभजताम् अक्रिया तादृशं कञ्चिदर्थमनपेक्ष्य विशेषणमित्येवाप्रयोगः । किं तु सार्थकानां प्रकृते क्वचिद् कथञ्चित् उपयोगिनामेव क्रिया कस्यचिद्वस्तुनो यात्रादेः [?] स्थाने समुपनतेऽवसरे प्राप्तकालं वर्णनम् । तादृशं हि वर्णनमतिशोभते । यदाह भारविः—
ननु जात्यादिकमपि भाविंकमेव, न हि तस्यापि विना भावेन अभिनिवृत्तिः । तत्किमिदमेव भाविकम् ? उच्यते- पद्येऽप्येवम् । तथापि यो भाव[ः] प्राबन्धिको विशिष्टः, तदायत्तमिह भाविकमभिप्रेतम् । अत एवोक्तम्—काव्येष्वासिद्धि यः स्थितः २.३६१ इतिं, जात्यादिकं तु प्रादेशिकभावाधीनम् । न हि प्रबन्धानुवर्तिना एकेन भावेन जात्यादिकं जन्यते प्रतिदेशमन्योन्यभावाभिनिवर्त्यत्वात् तस्य । तस्मात् तदन्वर्थैस्तैस्तैरभिधानैर्यथोक्तेन विधिना व्यवह्रियते न भाविकमिति ॥
- किरातार्जुनीये ५. १६↩